________________
२५०
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् प्राचीनतीर्थस्त्वयमस्ति लोके,
बभूव पूर्वं विजयाऽऽख्य इभ्यः । आदर्शभूतो विजयाऽभिधाना,
जगत्प्रधाना महती च राज्ञी ॥३७६॥ नगर्यपि प्राच्यतरा विशाला,
__ सुश्रावकाणां निलयैश्च पूर्णा । अनेकसच्चैत्यविभूषिताऽऽसीत्,
तत्राऽधुना वर्तत एकचैत्यम् ॥३७७॥ कच्छीययात्रां सकलां विधाय,
चागत्य रेमन्तनगोपरिष्टात् । द्वाविंशतीर्थङ्करनेमिनाथं,
विलोकयामास समस्त-संघः ॥३७८॥ संघाऽधिप-श्रेष्ठिनगीनदास
स्याऽऽचार्यवर्यः प्रभु-नीतिसूरिः । सत्तीर्थमालां परिधाप्य तस्थौ,
सुखेन तस्मिन् कति वासराणि ॥३७९॥ जनाः सहस्त्रं खलु पञ्च तस्मिन्,
सङ्के गरिष्ठे सकलाः समासन् । रेमन्तशैलोपरि सङ्गतानां,
नृणां सहस्रं तिथिसंख्यमासीत् ॥३८०॥ प्रस्थाय तस्मात् स हि सूरिराजः,
समागमज्जेतपुरं सशिष्यः । तत्रत्यसंघस्य महाऽऽग्रहेण,
गुर्वागमोद्भूत-गुरु-प्रहर्षः ॥३८१॥