________________
कच्छ भद्रेश्वरतीर्थयात्रा ससंघेन ।
उपजातिः
श्रीरैवताऽद्रि-भववारक- तीर्थ-कच्छभद्रेश्वराऽऽदि-कति-पावन - तीर्थहेतोः ॥३७०॥
भूरिव्ययेन निरजीगमदुच्चसंघं,
तत्रैतुमत्र सविधे सुगुरोः समागात् । विज्ञप्तिपूर्णसुदलं तत एव तूर्णं,
चक्रे विहारमित एष सशिष्य - सूरिः ॥ ३७१॥
संघः स पट्टणपुराच्चलितः क्रमेण, शङ्खेश्वरं परमतीर्थमुपाजगाम । शिष्योपशिष्यनिकरैः परिषेविताऽङ्घ्रिः, सूरीश्वरोऽपि समुपागतवांश्च तत्र ॥ ३७२ ॥
तत्तीर्थमालां परिधाप्य तत्र,
गोपालदासेत्यभिधानकस्य ।
श्रीमच्छ्गन्लालसुनन्दनस्य,
खेरालु - निष्काशित-संघनेतुः ॥३७३॥
श्रीमानसाविभ्य-नगीनदास
श्रीकच्छ-भद्रेश्वर-संघसार्धम् ।
चचाल शिष्यादिभिरिद्धतेजाः,
क्रमेण भद्रेश्वरमाजगाम ॥ ३७४ ॥ ( युग्मम् )
तत्राऽऽगतः संघ उदार - भक्त्या,
तत्तीर्थयात्रां विधिवद्विधाय ।
समस्त - संघस्त्विह कच्छदेशे, तत्पञ्चतीर्थी महतीं प्रचक्रे ॥ ३७५॥
२४९
( युग्मम् )