________________
२४५
विरमग्रामपूरे समहोत्सवेन प्रवेश :। प्रमिताक्षरा - वढवान-रम्य-नगरी तत ऐ
दयमात्मतत्त्व-विदुषां प्रथमः । पुर-वासि-सर्वजनता-रचितैः,
प्रविवेश चारु नगरं समुहैः ॥३४९॥ उपदेशमत्र स हि सूरिवरः,
परमार्थपूर्णमतिसौख्यददम् । ददिवानशेष-वृजिनाऽपहरं,
भव-वार्धि-पोत-भव-भीतिहरम् ॥३५०॥ प्रविहृत्य सिद्धगिरिमाप ततः,
प्रथमं जिनेशमवलोक्य मुदा । प्रणतिं विधाय बहुशः सुमना
स्तमनौदुदार-वचसा सुचिरम् ॥३५१॥ लिमडीपुरीमथ समागतवान्,
जनता-कृतैः सुरुचिरैश्च महैः । नगरं प्रविश्य सुचिरं दददे,
ह्युपदेशमेष भव-रोगहरम् ॥३५२॥ वंशस्थम् - ततोऽप्यसौ वीरमगाममागतः
सुवाद्य-बेण्डाऽऽनक-काहलाऽऽदिभिः । नदद्भिरुच्चै रमणी-सुगीतकैः,
___ पुरप्रवेशं कृतवांश्च सूरिराट् ॥३५३॥