________________
२४०
विभावरी
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
अमृतोपमां सदसि मिष्टया गिरा, जनता निशम्य बहुहर्षिताऽभवत् ॥३२३॥
स राजकोटपत्तनं समाययौ, विहृत्य तत्पुरीजनो महामहैः ।
प्रवेशयाञ्चकार तं पुराऽन्तरं,
जलधरमाला
उपजाति:
-
ददौ च देशनामसौ गरीयसीम् ॥३२४॥
वाँकानेरं पुर- वरमागाच्छ्रीमान्,
प्रस्थायाऽसौ तत इह पौराः सर्वे । वादित्राणां श्रुतिसुखकारै रावै -
रानैषुस्तं स्वपुरममी सानन्दम् ॥३२५॥
सूरिः श्रीमानिह हि ददे व्याख्यानं,
धर्म्यं पथ्यं परमगतेः सन्दायम् । जाताऽघौघ- प्रलयकरं जीवानां,
श्रुत्वाऽत्यन्तं प्रमुमुदिरे ते सभ्याः ॥ ३२६ ॥
आसीच्च तस्मिन् समये प्रवृत्ता, सुदुष्करा वार्षिकसत्तपस्या ।
तत्रत्य इभ्यः स हि दीपचन्द्र
स्तत्पारणाऽर्थं कडवेत्युपाधिः ॥ ३२७॥
अचर्करीच्चारुमहामहं स,
आष्टाहिकं तत्र विशेषपूजा ।