________________
जिणदुर्गे जिर्णोद्धृत ध्वजदण्डः प्रतिष्ठा । संदीक्ष्य तस्मिञ्जगजीवनाऽऽख्यं, कल्याणसाधोः कृतवांश्च शिष्यम् ॥३१७॥
गीतिः
भावनगरीय - महेभ्य - डोसाऽभयचन्दस्य सत्पीठिका | श्रीविजयनीतिसूरे- गिराऽचीकरच्च नवं ध्वजदण्डम् ॥३१८॥
—
तदारोहणे जनता - बोलिकोपचिताऽखिल - मुद्राः । तस्मिञ्जीर्णोद्धारे, समर्पयामासुरिभ्याश्च सर्वे ॥३१९॥
उपजाति:
इत्थं प्रतिष्ठोत्सवमेषको हि,
समाप्य सूरिः सह शिष्यवर्गैः ।
समागमज्जैतपुरं विहृत्य,
प्रबोधयामास जनांश्च भव्यान् ॥३२०॥
ततः समैद् गोण्डलनामपुर्यां,
मञ्जुभाषिणी
सम्मानित: पौरजनैश्च तत्र ।
धर्माऽमृतं भूरि ववर्ष सूरि
र्वाणि जीमूत इवाऽनपेक्षः ॥३२१॥
सममेष शिष्य - निकरैर्विहृत्य वै,
सरधारपत्तनमियाय सूरिराट् ।
सकलाऽऽर्हतैश्च पुरवासिभिर्मुदा,
पटहाऽऽदि- तूर्य - निनदै: प्रवेशितः ॥३२२॥
स हि सूरिराज इह दत्तवांस्ततो, भव-भीति-मोचन - करीं सुदेशनाम् ।
२३९