________________
पट्टणपूरे शिष्यान् पदवीदानः ।
पन्यास - भाजः सुधियो दयाऽऽख्यमुनेरुपाध्यायपदं व्यतारीत् ।
तदर्थमाष्टाहिकसूत्सवं श्री
सङ्घः समस्तः कृतवान् प्रहर्षात् ॥३०७॥
अथाऽऽगमत्रैवत-भूधरोप
रिस्थे सुजीर्णोद्धृत- रम्य - चैत्ये ।
दण्डध्वजाऽऽरोहण-कारणाय,
संघेन सम्प्रेषितमत्र सूरेः ॥ ३०८ ॥
पार्श्वे तडित्पत्रमतस्ततोऽसौ,
चरित्रनेता व्यहरत्सशिष्यः ।
समागमच्चाणर-नामधेयं,
पुरं ततस्त्याऽखिल - पौरलोकाः ॥ ३०९ ॥
बेण्डाऽऽदितूर्यैर्युगपन्नदद्भिः,
सुस्त्रीगणानामतिहारिगीतैः ।
पुरप्रवेशोत्सवमेतदीयं,
श्रद्धालवस्ते व्यदधुः प्रशस्यम् ॥३१०॥
२३७
(त्रिभिर्विशेषकम् )
चिरन्तनस्तत्र विभ( भा) ग आसीत्, संघे मिथस्तं बहुधा प्रयत्य ।
विनाश्य चैक्यं कृतवानयं हि, समस्त - स मुनिराजवर्यः ॥ ३११ ॥