________________
२३६
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् अभिमुखमेत्य घनाऽऽदरादमुं,
सकल-धरातल-पावकम्प्रभुम् । सुविहित-सूरिमवीविशन् पुरं,
सुजन-सुलोचन-चन्द्रिकायितम् ॥३०२॥(युग्मम् ) उपजातिः -
स डङ्क-मेताऽभिध-पाटकीये,
__ सूपाश्रयेऽतिष्ठदतीवरम्ये । आचार्यवर्यः सह शिष्यवर्ग
राष्टाहिकस्तत्र महोत्सवोऽभूत् ॥३०३॥ मालती - सुविहित-सूरि-वराऽऽननाऽब्जतः ।
क्षरदति-धार्मिक-देशनाऽमृतम् । भविकजनाः परिपीय सादरं,
हृदि सदनेऽमित-मोदमादधुः ॥३०४॥ उपजाति: - ततोऽसको खेतरवासि-पाट
कोपाश्रये संघ-महाऽऽग्रहेण । समाजगन्वान् प्रथित-प्रविद्वान्,
जिष्ण विष्णुः स हि नीतिसूरिः ॥३०५॥ शान्तस्वभावाय सुधीवराय,
श्रीशान्तिनाम्ने मुनये सुघस्त्रे । प्रादत्त "पन्न्यास" पदं महीयान्,
सूरीश्वरस्तत्र महामहेन ॥३०६॥