________________
२
पट्टणनगरे महोत्सवेन प्रवेशः । मृगाङ्क-शलाऽङ्क-महीमिताऽब्दे (१९८१),
मासे च मार्गे स हि बापुलालः । उद्यापनं भूरिमहामहेन,
चकार सौवाऽर्थबहु-व्ययेन ॥२९७॥ सूरीश्वरस्याऽस्य महोपदेशात्,
स्वर्गस्थ-पन्न्यास-पदाऽङ्कितस्य । भावाऽभिधानस्य गुरोश्च नाम्ना,
सत्पाठशाला-करणाय तत्र ॥२९८॥ तिथिप्रमाणं ददिवांश्च मुद्रा
सहस्रमेतद्भवनाय चाऽपि । श्रीबापुलालो यमुनाऽऽदिदासपुत्रोऽयुतं ता अतिदानशु( शौ )ण्डः ॥२९९॥
(युग्मम्) इतो विहृत्याऽऽगतवांश्च सूरिः,
सत्पट्टणाऽऽख्यं नगरं विशालम् । तत्रत्य-संघातिशयाऽऽग्रहेण,
शेश्रीय्यमाणो बहुभिश्च शिष्यैः ॥३००॥
मालती
पटह-मृदङ्ग-सुबेण्डवादन
___घन-रव-जित्वर-नाद-कारकैः । युवति-कदम्ब-सराग-गायनैः,
सह पुरवासिजना उपागतम् ॥३०१॥