________________
राजनगरे महोत्सव-डेलाभिधोपाश्रये साधूनां योगद्वहनम् । रेमन्त - शैलोपरि-जायमानसुजीर्णचैत्योद्धृति- फण्डमध्ये | दातुं यथाशक्ति महेभ्य-वर्गान्,
आचार्य-वर्यः कथयाञ्चकार ॥ २८५ ॥
संग्राह्य-नैकेभ्य-सुदत्त - षष्टि
सहस्रमुद्राः समितौ च तस्याम् ।
सम्प्रैषिषत्तत्र तदीयकार्यं,
जञ्जन्यमानं त्वरया किलाऽऽसीत् ॥ २८६ ॥
ततः सुलग्ने वलसाडवासि
श्रीरायचन्द्रं मतिमन्तमेतम् ।
संदीक्ष्य तन्नाम - गुणेति चक्रे,
शिष्यो बभूवांश्चरितस्य नेतुः ॥२८७॥
दीक्षार्थिनं केशवनामधेयं,
सुश्रावकं गुर्जर - पट्टणस्थम् ।
सन्दीक्ष्य सूरिः कमलेतिनाम,
धृत्वा स्वशिष्यं कृतवांश्च तत्र ॥२८८॥
शार्दूलविक्रीडितम् -
इत्थं व्योम - वसु-ग्रहेन्दु-तुलिते सम्वत्सरे वैक्रमे (१९८०), साकं शिष्यवरैः स राजनगरे डेलाऽभिधोपाश्रये । चातुर्मास्यमसौ व्यधात् पुर - जनाऽत्यन्ताऽऽग्रहात्सूरिराट्, धर्मोद्योत्तमचर्करीदतितरा भव्याञ्जनान् बोधयन् ॥२८९॥
व्याख्यानेऽन्तगढा( डा ) भिधं गुरुवर: सूत्रं पवित्रं मुदा, मेघ-ध्वान - विजित्वराऽतिनिनदैः सार्थं समश्रावयत् ।
२३३