________________
२३२
बेण्डाऽऽदिनानाविध-तूर्यघोषैः,
सुश्राविका - यूथ - सुमिष्ट- गीतैः ॥ २७९॥
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
विधाय साम्मुख्यममुष्य रम्यं,
सुसज्जितं तोरण- बन्धनाऽऽद्यैः ।
प्रवेशयामासुरतिप्रहृष्टाः,
पुरं विशालं जयनादपूर्वम् ॥ २८०॥ ( युग्मम् )
तद्देशनामाङ्गलिकीमपूर्वी,
संसार- दुःखाऽनल-वारिधाराम् ।
आकर्ण्य सर्वेऽधिक- भव्यजीवा,
निःसीममानन्दमपत्सतै( मवापुरे )वम् ॥२८१॥
श्रेष्ठी चुनीलाल- खुशालचन्दश्चक्रे समुद्यापनहेतुकं हि ।
आष्टाहिकं चारुमहामहं स,
वसूत्तर- स्नात्र - समर्चनञ्च ॥ २८२॥
श्रीस्वामिवात्सल्यमतिप्रशस्यं,
व्यधत्त भूरिद्रविण - व्ययेन ।
लुवारपोलीय उपाश्रयेऽसा
वाचार्य-वर्यः समवस्थितैषः ॥ २८३ ॥
तदग्र्य- सच्छ्रेष्ठिजनाऽऽग्रहेण,
बेण्डाऽऽदिवाद्येषु भृशं नदत्सु ।
उद्यापनाऽनन्तरमेष सूरि
र्डेलाऽभिधोपाश्रयमाजगाम ॥ २८४ ॥