________________
२२
पन्यासभावविजयस्य स्वर्गगमने चरित्रनेतुः शोकः ।
तदर्थमत्राऽपि समस्त-सज्जनाः,
__ प्रचक्रिरेऽष्टाहमनेकमुत्सवम् । प्रभावना-पूजनकाऽऽदिनैकधं,
जगुश्च तत्पावन-सद्गुणाऽऽवलीम् ॥२७४॥ शिखरिणी - महोपाध्याय-श्रीविपुल-मतिशाली-मुनि-दया
महाशान्तः शान्तीत्यभिध-मुनिरत्यन्त-विनयी । मुनिश्रीकल्याणो गुरुविनयि-सम्पद्रविमुनी,
तपिष्ठाः सद्धीरा उपगुरु समासन् सुयमिनः ॥२७५॥ शार्दूलविक्रीडितम् - ज्ञाताधर्मकथाऽभिधं प्रभुवरः सूत्रं पवित्रं परं, व्याख्याने समवाचयत् प्रतिदिनं गोष्ठ्यां महत्यामयम् । पीयूषोपमया गिरा पुरजनास्तच्छ्रोतुमत्युत्सुकाः, श्राद्धाः स्थानकवासिनोऽपि महता रागेण चाऽभ्याययुः ॥२७६॥ प्रान्ते तत्पुरतो विहृत्य सकलैः शिष्यैः समं सूरिराट्, सिद्धाऽद्रिं समुपेत्य तत्र विधिवद्यात्रां विधायाऽसकौ । स्थित्वा चाऽ(त्र)कियद्दिनानि सुजनाऽत्यन्ताऽऽग्रहात् सज्जनान्, स्वीयाऽमोघ-सुदेशनऽमृतरसैः सन्तर्पयामास सः ॥२७७॥ गीतिः - अथ राजनगरनिवासी-सौत्रिक-चुनिलाल खुशालचन्दस्य । विज्ञप्त्या राजनगर-मायातवान् सूरीश्वरः श्रीमान् ॥२७८॥ उपजातिः - आचार्यवर्यं नगरोपकण्ठे, -----
समेतवन्तं सकलाश्च पौराः ।