________________
२३०
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् गुर्वाज्ञया न्यवसदत्र पयोदकाले,...
सार्धं कियद्विबुध-शिष्यगणैर्विनीतैः ॥२६८॥ अत्राऽशृणोत् प्रवयसः स्वगुरोः शरीरे,
तत्पट्टणे स्थितवतश्चतुरश्च मासान् । पन्न्यास-"भाव" विजयस्य विशेष-बाधां,
__ श्रुत्वाऽपि गन्तुमशकन्न हि मेघकाले ॥२६९॥ दुःखं भृशं शनुभवन्निह संस्थितोऽयं,
धिङ्मां यदस्य चरमे समयेऽपि नाऽहम् । सेवां गुरोरकरवं न हि वा ह्य( प्य )पश्यं,
कालो बली यदिह वाञ्छति तद्विधत्ते ॥२७०॥ पन्यास-भावविजयो मुनिपुङ्गवो हि (वःस),
ह्यङ्क-स्वर-ग्रह-शशाऽङ्क-समान-वर्षे (१९७९)। यातो दिवं नभसि कृष्णदले गिरीश
जायातिथौ परममिष्टमनु(नु) स्मरन् सः ॥२७१॥ वंशस्थवृत्तम् - गुरोश्च स्वर्यानमतीव दारुणं,
निशम्य शोकाऽग्निरदीपि मानसे । तमेष तत्त्वाऽऽत्म-विचार-वारिणा,
चकार शान्तं बहुवेदिनां वरः ॥२७२॥ व्यजेष्ट कालं न हि कोऽपि शक्तिमान्,
ध्रुवश्च मृत्युर्जगतीतले नृणाम् । करोति कर्ता कृतवांश्च संहति,
करालकालो दुरतिक्रमो ह्ययम् ॥२७३॥