________________
२२८
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः - युगप्रधानस्य महीयसोऽस्य,
श्रीनीतिसूरेरुपगत्य पार्श्वम् । तत्कार्य-सिद्धिं कथयाम्बभूवुः,
श्रुत्वा भृशं सम्प्रससाद सूरिः ॥२५७॥ प्रारेभिरे तत्र सुजीर्ण-चैत्यो
द्धारं ततः सर्वजनास्तदर्थम् । श्रीमन्तमेनं मुनिराज-सूरी
श्वरं चतुर्मासमिहैव कर्तुम् ॥२५८॥ व्यजिज्ञपन् सोऽपि सुलाभ-हेतो
स्तत्रैव जूनागढ-पत्तने हि । प्रावृष्यतिष्ठन्नव-वाजि-रन्ध्र
ग्लौ-संमिते विक्रमराजवर्षे (१९७९) ॥२५९॥ (युग्मम्) आर्यागीतिः - . आषाढ-शुक्लपक्षे, चतुर्दशीतः प्रागेव जीर्णोद्धृतेः । स्थानमपि विनिश्चेतुं, तत्र सम्भावित-व्ययमपि परिच्छेत्तुम् । समुपादिदेश संघ, तदाय-व्ययाऽऽदिसन्दर्शिनीमेकाम् । समतिष्ठिपच्च समिति, सैव सकलमपि कार्यं कर्तुं लग्ना ॥२६१॥
(युग्मम्) श्रीमान् जूनागढीय-बाष्प-यान-कार्यालयस्थानां मुख्यः । हुकुमचन्दज-डाह्याख्यः, सुश्रमेण तत्कार्यं सुगमं चक्रे ॥२६२॥ वैतालीयम् - प्रतिनगरं कार्यकारिणी,
समितिरियं विततार सूचनाम् ।