SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २२५ मांगरोलप्रतिगमनम्। तत्रत्य-सञ्जीर्ण-जिनाऽऽलयाना मुद्धारहेतोर्मुनिराज एषः। आदिश्य सर्वान् वसु-सञ्चनार्थं, तत्रैकसंस्थां समतिष्ठिपत्सः ॥२४२॥ तत्पत्तनीयास्त्रय इभ्यवर्याः, तस्यां शशीषु-प्रमितं सहस्रम् (५१०००)। ददुश्च मुद्रा अतिदानिवर्याः, संघस्तु वेदाऽक्षि-सहस्त्रमुद्राः (२४०००) ॥२४३॥ तेषां कुसीदैरिह जीर्ण-चैत्यो द्धाराऽऽदिकृत्यं करणीयमाशु । प्रत्यब्दमेषामुपलेपनाऽऽदि, कर्तुं व्यवस्थापि च सूरिणा हि ॥२४४॥ मालिनी - नव-मुनि-निधिचन्द्रे वत्सरे मार्गशीर्षे (१९७९), ह्यसित-दल-दशम्यां तत्र वेरावलेऽसौ । भुजपरनगरीयं मालसिंहस्य पुत्रं, भव-विमुख-रवाऽऽख्यं, दीक्षयामास सूरिः ॥२४५॥ रविविजयशुभाऽऽख्यां तस्य धृत्वा च चक्रे, विबुध-मुनि-दयोपाध्यायशिष्यं ततोऽयम् । कृत-मह-सुविहारो मांगरोलं समागात्, पुर-जन-बहुमोदाऽऽरब्ध-चारूत्सवेन ॥२४६॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy