________________
२२४
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् भुजङ्गप्रयातम् -
समूचे च मन्त्री भवन्तो हि जूना
___ गढं ह्येत तत्राऽहमेतन्नवाबम् । समापृच्छ्य दास्ये विविच्योत्तरं वः,
प्रयत्नं तदर्थं स इत्थं प्रचक्रे ॥२३७॥ अतश्चैव हेतोश्चतुर्मासवासः,
क्षमाभृद्धयाऽङ्केन्दु-मानेऽपि वर्षे । बभूवाऽस्य वेरावले पत्तने हि,
महाधर्म-कार्यं चिकीर्षोश्च सूरेः ॥२३८॥ शिखरिणी - महोपाध्यायः श्रीसविजय-दयाऽऽख्यो मुनिवरो, मनिःश्रीकल्याणः सकल-जन-कल्याणजनकः । मुनिः श्रीमान् सम्पद्विजय-मुनि-मुक्तिश्च विजयोऽप्यमीभिर्धीमद्भिः सकल-मुनिगुण्यैः श्रिततरः ॥२३९॥ भुजङ्गप्रयातम् - प्रभास-प्रयुक्तं पुरं पट्टणं हि,
समागाद्विहृत्याऽसको तत्पुराच्च । इहाऽनेक-जातीय-वादिननादैः,
पुरं प्राविशत्सूरिराजः सशिष्यः ॥२४०॥ (युग्मम्) उपजातिः - गुहास्थितः सिंह इवाऽसकौ हि,
सभास्थितो विश्व-जनीनसूरिः । गर्जन् ददौ रम्य-सुधोपमानं,
धर्मोपदेशं सुचिरं जनानाम् ॥२४१॥