________________
जूनागढराजामात्यस्य वेरावले चरित्रनेतुः समीप आगमनम्। २२३ स्वीकुर्वते यदिह धीर-महापुमांसः,
प्राणान्तिकेऽपि तदमी न हि सन्त्यजन्ति । सम्पादयन्ति तदवश्यमनेकयत्नै
यत्तादृशी प्रकृतिरेव महाजनानाम् ॥२३२॥ जूनागढ-क्षितिप-मन्त्रिवरोऽपि तर्हि, - तत्राऽऽगमत् परमधार्मिक-कृत्यकारी । वेरावले त्रिभुवनाऽऽदिक-दास-दूले
रायः प्रसिद्धपुरुषो गुरु-देव-भक्तः ॥२३३॥ उपजातिः - तत्रत्य-सुश्रावक-देवकर्ण
खुशालचन्द्राऽभिधकस्य गेहे। वैवाहिकश्चारुमहाश्च( वर्यः),
प्रावर्तताऽस्मिच्छुभ-सुप्रसङ्गे ॥२३४॥ चैत्येऽपि सच्छेष्ठिवरस्तदर्थं,
चकार पूजां महतीं जिनस्य । समागमन्मन्त्रिवरोऽपि तस्या
माचार्यवर्योऽपि तदाग्रहेण ॥२३५॥ तदैतदाचार्यवर-प्रणुन्न
स्तत्रत्य-संघोऽवसरं च लब्ध्वा । इत्वा तदभ्याशममुं ययाचे,
रेमन्त-जीर्णोद्धृति-कर्तु(द्धरणार्थ)माज्ञाम् ॥२३६॥