________________
२१६
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तोटकम् - विहरन्नत एष गुरुलिमडी
वढवान-पुराऽऽदि-कियन्नगरीः । समुपेत्य जनानुपदेश-सुधा
मतिपाय्य भृशं क्रमशः ससुखम् ॥१९३॥ इन्द्रवंशा - सिद्धाचलं प्रापदुदारकीर्तिको,
बेण्डाऽऽदि-निःशेष-सुवाद्य-घोषणैः । बाधिर्यमत्यन्तमशेषदेहिनां,
नेनीयमानै रमणी-सुगायनैः ॥१९४॥ पीतैर्हरिद्भिर्धवलैश्च लोहितैः,
सद्वैजयन्तीनिकरैः समुच्चकैः ।... साम्मुख्यमेषां व्यदधुश्च नागरा, लोकाः सहस्रं पुरमाविशच्च तैः ॥१९५॥
(त्रिभिविशेषकम्) श्रीसंघ-बह्वाग्रह-हेतुनाऽत्र,
सप्तर्षि-निध्येक-शरद्यसौ सः (१९७७)। चरित्रनेता चतुरश्च मासान्,
वस्तुं विनिश्चिक्य उदार-बुद्धिः ॥१९६॥ सत्तीर्थयात्रोपरि नित्यमेष,
व्याख्यानमोजस्वितरं ददानः । तच्छृण्वतां नित्यमपूर्वमेव,
संख्या समासीन्महती जनानाम् ॥१९७॥