________________
२१५
चरित्रनेतुः समीपे श्राद्धैः कृतमुपधानादि । नैकप्रकारी कियती जिनाऽर्चा,
प्रभावना श्रीफल-शर्कराऽऽद्यैः । तपांसि भूयांसि कियाद्विधानि,
स्वर्मि-वात्सल्यमपि प्रभूतम् ॥१८८॥ गीतिः - इच्छाचन्द्रतनूज-श्छगनलाल इभ्यवरः शुभकर्मा । कारितवानुपधानं, कतिभिः श्रावकः श्राविकाभिश्च ॥१८९॥ उपजातिः -
प्रान्ते च मालापरिधापनीयो,
___ महामहस्तत्र बभूव चारुः । चक्रे निजाऽर्थ-व्ययमेष भूरिं,
सत्पुण्यशाली बहुभाव-युक्तः ॥१९०॥ शिखरिणी - उपाध्यायः श्रीमान् विविधगुणशालीमुनिदया, सुपन्यासौ हर्षाऽभिध-सुमुनि-दानौ वर-धियौ । विनीतौ सद्धीमन्मुनि-तिलक-मानौ सविजयाविहाऽऽसीत्कल्याण-प्रमुख उपसूरि प्रणयवान् ॥१९१॥ उपजातिः - आवाचयच्चाऽत्र विपाकसूत्रं,
श्रोतार आसन्नमिताश्च नित्यम् । महायशाः श्रीयुत-नीतिसूरी
श्वरो जगत्यामतिपूजनीयः ॥१९२॥