________________
महोत्सवपूर्वं सूरिपदप्रदानम् । पुराऽत्र वर्षे खलु भारते हि,
संख्याऽस्ति कोटिः परमाऽऽर्हतानाम् ॥१७७॥
कालप्रभावादपचीयमाना
saशिष्यते सम्प्रति लक्षसंख्या । तत्राऽपि साधोरटनोपदेशा
द्यभावतः प्रत्यहमेव जैनाः ॥ १७८ ॥
भवन्त्यजैनाः कतिथाश्च मूर्खाः,
स्वधार्मिक- ज्ञान - विवर्जितत्वात् । अत्यन्तमेवैतदशेष - जैन
साधूनवश्यं त्रपयत्यनल्पम् ॥ १७९॥ ( युग्मम् )
एथेत चेज्जैनिकसद्गृहस्थः,
श्रद्धां च दध्यादिह जैनधर्मे ।
तर्ह्येव जायेत मुनेरपीह,
सत्कारवृद्धिर्जनतासु नूनम् ॥१८०॥
अतश्च जैनश्रमणैरशेषै
स्तत्तत्प्रदेशेषु विहृत्य सर्वे । शुद्धोपदेशैः प्रतिबोध्य तेऽपि,
कार्या अवश्यं निजधर्मरक्ताः ॥ १८१ ॥
तथा कृते सर्वजनाऽनुकम्पा, मिथश्च मैत्री हृदयेऽनुरागः ।
वर्धिष्यते धर्मसमुन्नतिश्च,
लोकेष्ववश्यं भवितेति मन्ये ॥१८२॥
२१३