________________
२१२
उपजाति:
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
पन्यास - नीत्याख्य-मुनीशमुच्चै
राचार्यपट्टे ह्यभिषिच्च सम्यक् । न्यधुश्च तन्मूर्ध्नि सुवासचूर्णं,
चतुर्विधैः संघजनैश्च सत्रा ॥१७३॥ (चतुर्भिः कलापकम् )
पृथ्वी
ततः सदसि सद्गुरुर्विजय - नीतिसूरीश्वरो, विनम्र-वपुरुज्ज्वल-च्छविरुदार - वाचा मुदा । प्रपद्य पदमीदृशं जगति वः समेषा - मृणी, बभूव ( भवामि ) सुजनास्तथा सकल-शासनस्याऽप्यहम् ॥१७४॥
उपजाति:
तदीय- परिशुद्धिता-करण - शक्तिमन्तं हि मां,
करोतु जिनमण्डली सकल - सिद्धि - ऋद्धि-प्रदा । सदेति परिवश्म्यहं पदमिदं बिभर्तु च भोः !,
न मेऽस्ति खलु योग्यता यदपि तर्ह्यपीत्वा पदम् ॥१७५॥
समग्र - जिनशासने प्रसृत भेदभावाऽऽदिकं,
विनाश्य बहुमित्रतां जनयितास्मि चाऽहं यदा । स्वधर्म परिवर्धनं सकलतीर्थसंरक्षणं,
तदैव मयि शोभितं विभविता किलैतत्पदम् ॥१७६॥
न चाऽस्ति यावज्जनतैक्यता हि,
तावच्च सिद्धेर्दुरवापतैव ।
( युग्मम् )