________________
चरित्रनेतुःसूरिपदप्रदाने श्राद्धानांतद्गुरोःसमीपे विज्ञप्तिः ।गुरोश्चानुमतिः । २११ पुरेऽखिले तत्र महापथाऽऽदौ,
सत्तोरणादीनि बबन्धुरुत्काः ॥१६४॥ हरित्सित-श्यामल-रक्त-पीत
परिस्फुर-च्चीन-पट-ध्वजांश्च चतुष्पथोपाश्रय-रत्थ्यिकासू
दश्राययन्ताऽखिल-पण्यवीथ्याम् ॥१६५॥ उपगीतिः - मगनलाल-ठाकरसी-प्रेमचन्द-साकलचन्दश्च । सौत्रिक-भगु-चुनिलालो, वाटीवांश्छगनलालाऽऽख्यः ॥१६६॥ मणिलाल-साकलचन्द, इभ्य-शान्तिकुमाराऽभिधश्च । जगाभाइ-उमाभाइ, साकलचन्द-मोहनलालौ ॥१६७॥ झवेरी डाह्याभाइ-रूपचन्दाऽभिधः श्रेष्ठी च । मणिलाल-मोतीलाल, इत्याद्यनेक-राजनगरस्थाः ॥१६८॥ ग्रामान्तरोपयाता, अपि कति श्राद्धाः श्राविकाश्च । सुश्रमणा अपि सर्वे, साध्व्योऽप्युपतस्थिरे सर्वाः ॥१६९॥
(चतुर्भिः कलापकम्) इत्थं चतुर्विधश्री-संघसमक्षं राजनगरे । षट्-स्वर-नन्द-शशाङ्के (१९७६), हायने सहसि धवलपक्षे ॥१७०॥ विश्वतिथौ शुभलग्ने, तुङ्गस्थानगताऽधिक-खेटे । श्रीमदनुयोगाचार्य-पन्यास-भावविजयगुरवः ॥१७१॥ तदुदित-कृत्यमशेषं, प्रविधाय-सौव-करकञ्जेन । भानु-विभासुरमेत-च्चरितपति-शासन-धुरन्धरम् ॥१७२॥