________________
२१०
- आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् आजन्म ब्रह्मचारी, महाव्रती षट्त्रिंशद्गुणधारी । कालिकोत्कालिक-सूत्र-योगोद्वाही सकलाऽऽगमकुशलः ॥१५८॥ ईदृक्तदर्ह-मुनिरा-जाऽऽचार्य-पद-प्रदान-महिमानम् । चेक्रीयन्ते भक्त्या, पनीपद्यन्ते ते महापुण्यम् ॥१५९॥ इत्थं श्राद्धा विज्ञा, निर्णीय गुर्वन्तिकं समाययुः । जगदुर्मानस-भावं श्रीमता गुरुणाऽपि सहर्षममानि ॥१६०॥ उपजातिः - जगाद हृष्टो गुरुवर्य एवं,
भव्या ! यदीदृग्बहु-लाभदायि । कृत्यं शुभं वाञ्छ्थ तेन मन्ये,
समीहितं सेत्स्यति वो ह्यवश्यम् ॥१६१॥ तोटकम् - अनुमोदनमस्य करोमि मुदा,
कथयामि मनोरथ-मुच्चमिदम् । परिपूरयितुं सकला नचिरं,
तदपेक्षितमानयतोपकृतम् ॥१६२॥ गुरुराज-गिराऽमित-मोदमिताः,
शुभ-कुङ्कुमपत्रमशेषपुरम् । व्यतरन् पुरवासिजनाः सकला
स्तदपेक्षित-सम्भृतमप्यखिलम् ॥१६३॥ उपजातिः - आनीय-पन्यास-मुनीश-नीत्या
चार्याऽऽसनाऽऽरोपण-सूत्सवाय ।