SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २०७ भिन्नभिन्नस्थानेषु स्वशिष्याः प्रेषिता शुभकार्यार्थम् । गीतिः - तदपि सकृदेव विकार-षट्कैघृताऽऽदिभिः परिवर्जितञ्च । इत्थमेव तदवसान-दिनाऽवधि क्रियते तदनुष्ठाने ॥१४१॥ उपगीतिः - उपधानतपसोऽन्यत्र, भवन्ति तानि षडपि हेयानि । उपधानेऽपक्वमेव, हेयं न हि तत्कृतमिष्टाऽऽदि ॥१४२॥ शार्दूलविक्रीडितम् - इत्थं बाण-हयाऽङ्क-चन्द्रतुलिते सम्वत्सरे चाऽमदा (१९७५)वादे भूरिमहामहेन समभूत् प्रावृट्चतुर्मासिका। लूवाराऽभिध-पोलकीय-रमणीयोपाश्रये सद्गुरोर्नानाधार्मिक-कृत्यमत्र सुजनाश्चक्रुस्तदादेशतः ॥१४३॥ अर्हच्छासनदीपयत्सुविदुषां सर्वाऽऽगमज्ञानिनां, षट्त्रिंशद्गुणधारिणा मतिशय-स्वाचार-सम्पालिनाम् । सद्वादि-द्विरदाऽतिगर्व-दलने पञ्चाननानामिह, द्वन्द्वातीतमहात्मनां सुयमिनामत्यन्ततेजस्विनाम् ॥१४४॥ उपजातिः - आचार्य इत्युच्चपदं प्रदातुं, सुपद्धतिश्चाऽपि चिरन्तनीह । वर्वति पूर्वं खलु भारतेऽस्मिन्, प्रतिस्थलं धार्मिकवैजयन्ती ॥१४५॥ परिस्फुरन्ती परितः किलाऽऽसीत्, सदाऽऽर्हतानामतिकोविदाश्च । युगप्रधाना जनता च जैनी, स्वधर्म-रक्षाकृतयेऽयतन्त ॥१४६॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy