________________
२०६
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीमानसाधूदयसाधु-धीर
मनोहराः सुश्रमणश्च सम्पत् । इत्यादिशिष्या गुरुवर्य-पार्श्वे,
विचक्षणाः सद्गुणिनः किलाऽऽसन् ॥१३६॥ वसन्ततिलका - पन्न्यास-हर्षविजयं मतिमद्विनीत
मानाऽभिधं प्रहितवानुभकाविमौ सः । हाजापटेल-इतिनामक-पोल-पक्थी
योपाश्रये जलद-कालिकवासहेतोः ॥१३७॥ श्रीशान्तिसाधुमुदयाऽऽदिकसाधुयुक्तं,
डेलाभिधप्रथित-रम्य उपाश्रयेऽपि । तत्रत्य-सर्वजनता-विपुलाऽऽग्रहेण
प्रैषीत्पयोदसमयं व्यपनेतुमीड्यः ॥१३८॥ औपच्छन्दसिकम् - पाडापोलाऽधिवासकर्ता,
कालिदास-मलिचन्द्र इभ्यमुख्यः । अचीकरच्चोपधानमैषे,
___ धवलदले दशमीतिथौ सुधर्मा ॥१३९॥ तदङ्गभूतं यथोक्तरीत्या,
नवपद-मन्त्रमुपासिसच्च सर्वैः । तत्रैकदिने तपस्विनस्ते,
समुपोष्य परदिने च भुञ्जते हि ॥१४०॥