________________
लुहाराभिधपोले चतुर्मासः ।
शार्दूलविक्रिडितम्
शान्तिस्नात्र - समर्चनं भगवतः श्रीमज्जिनेन्द्र-प्रभोचक्राणो विधिवन्महेभ्य इह हि प्रोल्लासिचेताः कृती । सर्वे मुख्यमहाजना गुरुममुं विज्ञापयाञ्चक्रिरे, चातुर्मास्यकृते चकार मुनिराट् - तत्प्रार्थनस्वीकृतिम् ॥१३१॥ व्याख्याने शतशः स्त्रियश्च पुरुषा आगत्य लाभं परं, लग्ना लातुमनारतं गुरुवराऽऽस्यात्पूर्णचन्द्राद्भृशम् । निर्गच्छत्सुकथाऽमृतं कति भवोद्भूताऽघ - गोत्राऽशनिं सम्पीयाऽखिल - सज्जनाः समभवन् हर्षाब्धिमग्ना अलम् ॥१३२॥
—
ज्ञाताधर्मकथाऽऽत्मकञ्च ललितं सूत्रं हि प्रत्याहिक
व्याख्याने समवाचयद्गुरुवरो मेघाऽऽरवाऽऽभ - स्वनैः । नानादुष्कर - सत्तपो विदधिरे सम्यक्त्वमापुः परे, भूयिष्ठाः सुजना अनेकनियमानादुश्चतुर्मासके ॥१३३॥
उपजातिः
प्रभावना नित्यमवण्टयच्च, सन्नालिकेराऽऽदिभिरादरेण ।
नैकप्रकारी समभूच्च पूजा,
स्वधर्मिवात्सल्यमपीह नैकम् ॥१३४॥
पन्यासभाग् दानमुनिश्च पन्या
सो हर्षनामा मुनिराजकश्च । गम्भीर - शान्ती विजयौ च मुक्तिः, श्रीराजनामा तिलको मुनिश्च ॥ १३५ ॥
२०५