________________
लुहारपोलोपाश्रयनिर्माणप्रसंग: ।
सप्रेमविज्ञप्तिदलं विहर्तु
गीतिः
मन्त्राऽचिरं श्रीगुरुदेव - पार्श्वे ।
अतस्ततोऽशेष-मुनीश - युक्तः,
भुजङ्गप्रयातम् -
मार्गे च लोकान् भविकाननेकान्, सम्पाययन् धर्मकथाऽमृतानि । पृथ्वीं पुनानः समियाय सोऽयं, श्रीराजपूर्वं नगरं प्रशस्तम् ॥११९॥
प्रतस्थिवान् पौरकृतोत्सवेन ॥ ११८ ॥ ( युग्मम् )
वदद्भिः समुच्चैः समं बेण्ड - भेरीप्रभेदैः सुतूर्यैर्वधूनां सुगीतैः । धमद्भिश्च शङ्खाञ्जयं व्याहरद्भि
-
र्जनैरुत्पताकं पुरम्प्राविशत्सः ॥१२०॥
अयस्कृत्प्रतोली- स्थितोपाश्रयेऽसौ,
न्यवात्सीच्च सत्रा यतीन्द्रैरशेषैः ।
क्रियोद्धारि-पन्यास- सत्याऽभिधान
महापट्ट - पारम्परयो गरीयान् ॥१२१॥
२०३
अनुयोगाचार्यवरः, पन्यास - रूपविजयमहाराजः ।
स पुराऽऽगतवाच्छ्रीमान्, स्वः श्रीविजित्वरेऽत्र राजनगरे ॥ १२२ ॥
( युग्मम् )
आसंस्तत्परिवारा:, पन्यासाऽमीत - कीर्तिविजयाऽऽदयः । अयमेकदा पन्यास- कीर्तिविजयमादिदेश गोचर्यै ॥ १२३ ॥