________________
२०१
उंझापुर्यां दीक्षादि कृत्वा तारङ्गातीर्थं प्रति गमनम् । __ २०१ उपजातिः - घनाः कणव्याख्यजना वसन्ति,
कृषीवला धार्मिकरागवन्तः । सत्प्रेमकर्तार उदारचित्ताः,
__ कारुण्य-पूर्णाः सुखिनश्च सर्वे ॥१०८॥ शार्दूलविक्रीडितम् - प्रान्ते श्रीमुनिराडसौ परिकरै|जुष्णमाणः समैनिर्गच्छच्छत-संख्यकेन महता संघेन सार्धं मुदा । तारङ्गाज्यतिपावनस्य महतस्तीर्थस्य यात्राचिकीरूझातश्च विनिर्गतः शुभदिने चैन्मेरवाडापुरीम् ॥१०९॥ तत्रैतं गृहमेधिनश्च सकला अत्यादरादागतं, वादित्राऽऽदिभिरागता अभिमुखं प्रावीविशन् स्वम्पुरम् । पन्नासो मुनिपः स भावविजयः श्रीमान् दयाऽऽख्यस्तथा, पन्न्यासः समुपाजगाम च मुनिः कल्याण-रम्याऽभिधः ॥११०॥ वसन्ततिलका - पन्न्यास-दानविजयो मुनिपः कियद्भिः,
सच्छेमुषी-सुमति-सुश्रमणाऽऽदिभिश्च । युक्तः समागमदुदारमना मनीषी,
सम्प्राप्तवान् सुमुनिराजविजिच्च तत्र ॥१११॥ इत्थं ह्यनेक-गुरुमण्डलमण्डितोऽय
मेतच्चरित्रवरनायक-संयमीन्द्रः । निरशेष-पाप-परिमोचन-तीर्थ-तार
ङ्गाजि जगाम परमाऽऽर्हत-संघयुक्तः ॥११२॥