________________
२००
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् व्याख्यान-पीयूषमलं निपातु
माजग्मुरेतस्य गुरोः समुत्काः ॥१०२॥ वसन्ततिलका - द्विः सप्त-पूर्व-बहुपुण्यद-सत्तपस्या
मारीरधबहुल-भव्यजनैः सकोऽस्मिन् । सद्धर्म-देव-गुरुसेवन-हेतुना हि,
"सेवासमाज" मपि सम्यगतिष्ठिपच्च ॥१०३॥ उपजातिः - सद्बालकानामपि “नीतिसङ्गी
तमण्डलं" स्थापितवाननंहाः । धर्मेषु पौरानुदसीसहच्च,
स इत्थमस्मिन् बहुधोपचक्रे ॥१०४॥ उपगीतिः - तिलकविजय-मुनिउदयौ, सुरेन्द्र-मनोहर-रविविजयाः । मुनि-सम्पद्विजयाऽऽद्या, गुरु-निकटे ववृतिरे शिष्याः ॥१०५॥ नगरेऽस्मिन् गगनचुम्बि, वर्वृतीति मन्दिरं चैकम् । धर्मशाला विशाला, विलसति चोपाश्रयोऽप्येकः ॥१०६॥ इन्द्रवज्रा - सद्वालिका-बालक-धर्मशिक्षा
कृतेऽपि तत्राऽस्ति हि पाठशाला । इष्टेशनं वैद्युत-पत्र-वेश्म,
पत्राऽऽदि-सम्प्रापक आलयश्च ॥१०७॥