________________
पट्टणपत्तने पाठशालास्थापनोपदेशः । तस्मात्प्रधाननगरे महदस्ति तस्या,
आवश्यकत्वमधुना कलिकालमध्ये । यस्याममी मुनिगणा गृहिणश्च सम्यक्,
__शास्त्राण्यधीत्य बहुविज्ञतमा भवेयुः ॥१७॥ इत्थं तदर्थमधिकं यतमान आसी
च्छीमांश्चरित्र-वरनायक एष तत्र । किन्तूत्थिताः खलतया बहवो हि विघ्नाः,
सर्वं ह्यमुष्य यतनं विफलं प्रचक्रुः ॥१८॥ ऊँझापुरीय-परमार्हत-सर्वसंधैः,
सम्प्रार्थितो जलद-कालिक-वासहेतोः । कृत्वा विहारमसकौ पुरतश्च तस्मा
दूझापुरीमचिरमेव समाजगन्वान् ॥१९॥ तत्रैतकस्य परमोच्चमहं ह्यपूर्वं,
व्यातेनिरेपुरजना नगरप्रवेशे । बेण्डाऽऽदितूर्यमखिलं प्रणनाद रम्यं,
गीतं जगुः सुवदना ललनाः कियत्यः ॥१००॥ सम्वत्सरे युग-हयाऽङ्क-शशाऽङ्कसंख्ये (१९७४),
मासे शुचौ सितदले दशमीसुतिथ्याम् । सम्पन्मुनेः प्रददिवान् बृहतीं सुदीक्षा,
__ पन्न्यास-नीतिविजयो मुनिराजराजः ॥१०१॥ उपजाति: - जैनास्तदन्या अपि( दन्येऽपि च) पौरलोका,
आबाल-वृद्धाः प्रतिवासरं हि ।