________________
१९८
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् विद्याचणोऽशेष-विवादि-मत्त
___ मातङ्ग-पञ्चानन ईड्यवर्यः ॥११॥ कालेऽधुना पूर्णधिया विहीना,
अपीह जैना मुनयः कियन्तः । अधीत्य किञ्चित्पदवीं गरिष्ठा
मुशन्ति तेभ्यो ददते च लोकाः ॥१२॥ परन्तु नेदृङ्मुनयः कदापि,
सुश्रावकीयोपकृति विधातुम् । भवन्ति शक्ता इति संविमृश्य,
चरित्रनेता हदि पुण्डरीके ॥१३॥ सुखेन तेषां परिपूर्ण-शास्त्राऽ
भ्यासाय रम्यां मुनिपाठशालाम् । संस्थापयिष्यन् नगरीयमुख्या
नुपादिशदैनिकदेशनायाम् ॥९४॥(त्रिभिर्विशेषकम्) हे भव्यजीवा ! इह घोरकाले,
ज्ञानोन्नति कर्तुमवश्यमेकाम् । संस्थापयध्वं मुनिपाठशालां,
सैवाऽस्ति तस्योन्नति-मुख्य-हेतुः ॥१५॥
ता
वसन्ततिलका -
ज्ञानं विना यत इमे सकलाश्च जीवा
स्तुल्या भवन्ति पशुना न हिताऽहितादि । जानन्ति नैव जनतामुपदेष्टुमर्हा,
नो वा तरन्ति भव-सागरतः कदाऽपि ॥१६॥