SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ १९७ सोत्सवं मुनिसम्पत विजयस्य दीक्षा । निष्काश्य रम्यं वरघोटकञ्च, विमुक्तसंख्यानजनैश्च सत्रा । विलासिनीनां कमलाननानां, यूथेषु गायत्सु मनोहरं हि ॥८६॥ महारथे सर्वपुरःसरे च, बेण्डाऽऽदिसम्पूर्णविवादनेषु । नानद्यमानेष्वधिकं जनानां, बाधिर्यकारिष्वखिलाऽऽगतानाम् ॥८७॥ इत्थं महाऽऽडम्बरतः समेतं, श्रीसोमचन्द्रं जनतासमक्षम् । सन्दीक्ष्य लग्ने शुभदे मुनीन्दुस्तन्नाम सम्पद्विजयं प्रचक्रे ॥८८॥ (चतुर्भिः कलापकम्) अत्यन्त-पौराऽऽग्रहतः कियन्ति, दिनानि तत्राऽध्युषितान्यनेन । तपस्य-शुक्ले प्रविहृत्य तस्मात्, समं सुशिष्यैर्विबुधैः कियद्भिः ॥८९॥ विधाय सङ्केश्वरतीर्थयात्रा मुपेयिवान् पट्टण-पत्तनं सः । पौरोपनीताऽतिशयोत्सवेन, प्राविक्षदेतन्नगरं महौजाः ॥९०॥ (युग्मम् ) उपाश्रये सागरनाम्नि तस्थौ, साधूपयुक्ते विपुले सुरम्ये ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy