________________
१९६
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् अन्येऽपि धीर-धिषणा विषयाऽभिलाषं,
त्यक्त्वा सुदुस्त्यजमपीह मुमुक्षुजीवाः । नैके बभूवु-रवनीतल-माननीयाः,
सत्त्यागिनो निरतिचार-सुसंयमत्राः ॥८१॥ तेनैव सर्वजनता बहु-धर्मरक्ता,
सम्यक्त्व-वासितमना उपलक्ष्यतेऽस्मिन् । चैत्यानि भूरि विलसन्ति महान्ति तत्र,
चेतोहराणि समुपागतदर्शकानाम् ॥८२॥ स्रग्धरा - इच्छाचन्द्राङ्कजन्मा शिव-सुखरसिकः सोमचन्द्राऽभिधानश्चाऽष्टाहीनं प्रशस्यं परम-महमिहाऽऽरब्धवांस्तत्र नित्यम् । पूजां नैकप्रकारामकृत जिनवराणां प्रवृद्धाऽतिभक्त्या, हृद्यैर्गीतैश्च वाद्यैः सुजनततिकृतैर्नर्तनैश्चाऽतिरम्यैः ॥८३॥ उपजातिः - प्रोत्साहवन्तः सकलाश्च पौराः,
प्रत्येक-सद्मन्यमुमादरेण । आनीय सम्भोज्य कराऽम्बुजेऽस्य,
सश्रीफलं रूप्यकमप्यदुस्ते ॥८४॥ इत्थं दशाहाऽवधिकोत्सवेषु,
जातेषु वेदर्षि-नवैक-वर्षे (१९७४)। माघे सुमासे धवले च पक्षे,
तिथ्यां दशम्यां भव-भीति-हीम् ॥८५॥