________________
अनुकरणीयं महात्मनश्चारित्रम् । शार्दूलविक्रीडितम् - तस्मात् सम्प्रति वर्तते क्षितितले साधीयसां तादृशामत्यावश्यकजीवनीयचरितं यद्वाचनात् सत्वरम् । जायेरन्नुरुबुद्धयः शिशुगणा अग्रेतना भूरिशः, सौन्नत्यकरा जगद्धितरता आदर्शभूताः सताम् ॥११॥ वैतालीयम् - महतामपि जीवनं क्रमात्, पदमुच्चैस्तममञ्चति ध्रुवम् । जीवनेन तादृशा नरः, सम्पश्यन्ते मार्गमात्मनः ॥१२॥ वसन्ततिलका - तीर्थङ्करा अपि समे भगवन्त एते,
प्राक् क्वाऽपि जन्मनि समा अभवन्मनुष्याः । स्वार्थप्रमुक्त-शुभवर्तन-सद्विचारैः,
__ प्रारब्ध-जात-विशदाऽऽचरणैश्च नित्यम् ॥१३॥ उपेन्द्रवज्रा - यथा यथा ते निज-षट्सपत्नान्, परैरजय्यान् सहसैव जिग्युः । तथा तथा जीवननिर्मलत्वं, विनिन्यिरे सत्त्वमया भवन्तः ॥१४॥ उपजातिः - तत्तद्भवोपार्जितसर्वकर्मा-ण्याधूय सिद्धि परमामवापुः । अनन्तविज्ञानमनन्तशक्ति-माप्तास्त्रिलोकीपतयो बभूवुः ॥१५॥ विधातुमेवं निजजीवनं हि, पतन्ति नैके प्रबलाश्च विघ्नाः । जयश्च तेषां कषपट्टिकेव, तादृग्जनानां विचकास्ति लोके ॥१६॥ तादृग्जनाऽग्रेसरतां गतस्य, महीयसोऽमुष्य चरित्रनेतुः । आजन्म सर्वं चरितं पवित्रं, विश्वोपकृत्यै प्रकटीकरोमि ॥१७॥