________________
२
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
शार्दूलविक्रीडितम्
येषां जीवनमुज्ज्वलं सुकृतिनां जाजायते प्राणिनां कामाऽऽदि - प्रविमुक्तमेव हृदयं शश्वद्दरीदृश्यते । संसारीयमशेषवस्तु नियतं स्वप्नेन्द्रजालोपमं, ये पश्यन्ति त एव धन्यमनुजा वैराग्यवन्तो मताः ॥५॥
उपजाति:
,
एतादृशा एव महापुमांसः, क्षितौ परेषामपि जीवनानि, प्रकाश्य नैजाऽमल- जीवनाऽऽभां कुर्वन्ति चाऽऽदर्शमयानि नूनम् । मार्गे समुच्चे सहसाऽऽकृषन्ति, स्थातुं च लोकानितरांस्त एव, मोहाऽन्धकारक्षय- तीक्ष्णहस्ताः, परोपकारव्रतिनो महिष्ठाः ॥७॥
वसन्ततिलका
तादृग्विशिष्ट-गतमोह-महाऽऽप्तपुंसा
मेवानुकुर्वत उदारधियः समस्ताः । अत्युच्चकृत्यमपरे व्यवहारदृष्ट्या,
तेनैव शीघ्रमतितुङ्गपदं लभन्ते ॥८॥
उच्चैस्तमाः परिबुभूषव आशु बालाः,
कुर्वन्ति शिष्टजनताऽऽचरणं पवित्रम् । तादृग्भ्य एव वसुधातलपावनेभ्यः,
शिक्षां परां बहुविधां सुखमाप्नुवन्ति ॥९॥ तेषां सुपूर्ण- शरदिन्दु- समुज्ज्वलाऽऽभां,
कीर्तिं सतीं जगदिदं परिभासयन्तीम् । प्रज्ञावतामभिमतामतिशिक्षितास्ते,
प्रख्यापयन्ति महतामपि तद्विधानाम् ॥१०॥