________________
ॐ अहँ नमः
__ ऐं नमः तीर्थोद्धारक-सर्वशास्त्रविशारद-जैनाचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् ।
(महाकाव्यम्)
स्रग्धरा - श्रेयः कर्तुं जगत्याः परमकरुणया ज्ञानचक्षूषि दत्त्वा, विश्वेषां भक्तिभाजां जनि-मृतिजनितां क्लेशमालामसह्याम् । जेहीयन्ते त्रिलोकी-सुर-नर-दितिज-ध्येय-पादारविन्दास्तान् सर्वांस्तीर्थकारान् भवजलधि-महापोतकल्पान् नमामः ॥१॥ मार्तण्डो नैशमन्धव्रजमिव नियतं शुद्धचारित्रभाभिभव्याऽऽत्माऽज्ञानराशिं झटिति परिहरन्त्येव येऽमी सुमह्याः । सम्यक्त्वत्त्व-प्रकाशं विदधति करुणा-वारिसम्पूर्णकूपा, भूयो भूयः प्रणौमि प्रवर-मुनिगणान् सद्गुरूंस्तानजस्त्रम् ॥२॥ इन्द्रवज्रा - विद्यावतामानन-सत्तटाके, या राजहंसीव विलालसीति । संसार-सन्ताप-निवारणाय, गङ्गेव शुभ्रा भुवि वर्वृतीति ॥३॥ तां शारदां धीरधियः प्रदात्री, ब्रह्माऽऽदि-सर्वाऽमर-नूयमानाम् । देवी प्रसन्नां जगदाद्यरूपां तोष्टोमि भक्त्या वचसामगम्याम् ॥४॥