________________
१९४
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रावकाश्च कर्मठाः समे, . ........
धर्माऽऽराधन उत्सहिष्णवः । भद्देवा पार्श्वनाथजित्
चैत्यमेकमिह वर्तते महत् ॥७१॥ वसन्ततिलका - सानन्दमत्र गुण-वाजि-नवैक-वर्षे (१९७३),
प्रख्यात-चाणस-पुरे गुरुवर्य एषः । वर्षादिनानि मुनिरागमयाञ्चकार,
सौवैः सुशिष्य-निकरैः सह सञ्जितात्मा ॥७२॥ प्रभुदितवदना - व्यहृत तत उदार-कीर्त्याश्रितः,
सुविनयि-कति-शिष्यकैः संयुतः । वडनगरमुपेयिवान् दीप्तिमान्,
सुगुरुरयमपारविद्यार्णवः ॥७३॥ अकृत सदुपधानमेको गृही,
रुचिरतर-महेन तस्मिन् पुरे । अजनि तदनु मालिकाऽऽरोपणं,
पुनरपि तत आगमच्चाणसम् ॥७४॥ वसन्ततिलका - अत्राऽऽययौ भव-जिहासुमनाः स सोम
चन्द्रो हि राधनपुरात्सुगुरोः समीपम् । संसार-वासमति-दुःसह-दुःखपूर्ण,
कारागृहायितममुं परिवीक्षमाणः ॥७५॥