SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ जलाशय खननभूमौ प्रतिमानिर्गमनम् । प्रागत्र कश्चिद्यवनाऽधिराज आर्या - श्चिच्छेद सर्वाः प्रतिमा ( मा: ) खलीयान् । दैवाच्च काञ्चिन्न चकर्त किन्तु, चिक्षेप कुत्राऽप्नुयमीयते तत् ॥६४॥ तां तीर्थकर्तुर्दशमस्य दिव्यां, प्राचीनमूर्तिं सकलाश्च जैनाः । आनीय चैत्ये सुगुरोरमुष्य, सुपाणिना सम्यगतिष्ठिपंश्च ॥ ६५ ॥ श्रीशीतलनाथजैन - मण्डल - मिह संस्थाप्य तद्धस्तेऽसौ । प्रागुक्तकार्य-द्वितय- मार्पयच्चरितपतिः श्रीमान् ॥६६॥ समपीपदच्च सर्वं, सुगमतया मण्डलमपि तत्कार्यम् । तदाय - व्ययौ विलोक्य, चक्रे च वहीवटं शुद्धम् ॥६७॥ वर्षर्ताविह पुर्यां चतुर्दशपूर्वाऽऽराधनाऽऽदीनि । " चक्रिरे च सत्तपांसि श्राद्धाः श्राविकाश्च सुभक्त्या ॥ ६८ ॥ " वैतालीयम् - गम्भीर - मुनिर्विचक्षणः, कल्याणविजय उज्ज्वलाऽऽशयः । मङ्गलविजयो महामति - मनोहरो जनता - मनोहरः ॥६९॥ पुष्पिताग्रा मुनिरविविजयोऽतिशेमुषीं, दधतः सकलाः सत्तपस्विनः । गुरु-चरण- सरोज-षट्पदा, निकटे तत्र हि सद्गुरोः स्थिताः ॥७०॥ १९३
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy