________________
चाणसग्रामे चरित्रनेतुरुपदेशः । पञ्चाशकग्रन्तमशिश्रवच्च,
मेघाऽऽखाऽऽडम्बरजित्स्वनेन ॥५३॥ इहत्य-देवाऽऽलय-जीवरक्षा
संस्थाऽऽलयाऽऽय-व्यय-दर्शनाऽऽदि । नैकोऽपि चक्रे तत एव तत्र,
निरीक्ष्य हानि महतीं भवन्तीम् ॥५४॥ गुरुः समूचे खलु देशनाया
___मुपस्थितं तर्हि (तत्र) समस्त-संघम् । महानुभावा ! ध्रुवमेव वित्त, .
यदेष कालो ग्रसितुं समेषाम् ॥५५॥ प्रतीक्षमाणोऽवसरं शिरःसु,
परिभ्रमत्येव दिवानिशं वै । कदा ग्रहीता स हि नेति कोऽपि, वेविद्यते मानव जीव एषः ॥५६॥
(त्रिभिर्विशेषकम्) आयुश्च नित्यं परिहीयते हि,
विद्युनिभं सूर्य-गमाऽऽगमाभ्याम् । अतः स्वहस्तेन सुविज्ञजीवाः,
प्रकृर्वते यत्सुकृतं तदेव ॥५७॥ हिताय नृणां भवतीति मत्वा,
स्वधार्मिकाऽऽय-व्यय-लोकनाऽऽदि । कृत्वा प्रदेयं झटिति प्रदत्त,
ग्राह्यं च यत्तत्सकलं हि लात ॥५८॥ (युग्मम् )