________________
१९०
इन्द्रवंशा
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
तथा मशाणानगरीय संघोऽ
पा(घ, आ )गत्य चक्रे सुगुरोरमुष्य । वह्नीं च विज्ञप्तिमसौ तदा हि, लाभ-प्रकर्षाऽऽदिगुणानुदीक्ष्य ॥ ४८ ॥
सच्चाणसीयाऽखिल
संघकीय
तदर्थ - विज्ञप्तिमुरीचकार ।
प्रैषीन्मशाणानगरे च पन्या
स-दान-नामानमयं तदर्हम् ॥४९॥ ( युग्मम् )
ततो व्यहार्षीच्छुभवासरेऽसौ,
स्त्रीभिश्च पुम्भिर्बहुभिः सुजुष्टः । लग्ने शुभे चाणससुप्रवेशं,
चक्रे मुनीन्दुर्महता महेन ॥५०॥
बेण्डाऽऽदि - नानाविध- तूर्यनिस्वनैः, सुश्राविकायूथ-सुगीत-गायनैः ।
लोकैर्बुवद्भिर्जयनादमुच्चकै
निःशेष-पौरैः सह भूरिशिष्यकैः ॥५१॥ ( युग्मम् )
सुधांशुवच्छीतलदर्शनोऽसौ,
कर्तव्यतायां नरजन्मनो हि ।
उपादिदेशाऽधिकमिष्टवाचा,
जग्राह तत्सारमशेषलोकः ॥५२॥
जैनांस्तदन्यानपि भव्यजीवान्,
समभ्युपेतान् समये च नित्यम् ।