________________
१८९
पत्तने उद्यापनोत्सवः । सच्छीलशालिन्युजमाऽभिधाना,
सुश्राविकैकाऽकृत भूरिभावा । उद्यापनं तत्र महामहेन,
श्रीमद्गुरूणामुपदेशनुन्ना ॥४३॥ धीभक्ति-शैलोपरि सज्जनाना
मारोढुमेतत्कथितं सुधीभिः । सोपानभूतं यदि पाञ्चमेयं
___ स्यात्तत्पुरस्तात् खलु पञ्च पञ्च ॥४४॥ सर्वाणि वस्तूनि निधाय विज्ञा,
आराधयेयुस्तदतीव भक्त्या । प्रादाच्च दीक्षां बृहतीमपीह,
___ मनोहर-श्रीरविनाममुन्योः ॥४५॥ मालिनी - उदयविजयसाधोः शिष्यकोऽभून्मनोह
रविजयमुनिरेवं श्रीसुरेन्द्रस्य साधोः । रविविजयमुनिश्चाऽबोभुवीत्सद्विनेयो,
गुण-हय-निधि-चन्द्रे वत्सरे ज्येष्ठकृष्णे (१९७३) ॥४६॥ उपजातिः - वैश्वे तिथा-वागतवांश्च तत्र,
विज्ञापयामास च चाणसीयः । . संघश्चतुर्मास-निवासनाय,
__ श्रीमन्तमेनं गुरुराजमुख्यम् ॥४७॥