________________
१८७
रणूजपत्तने महोत्सवादि। दीपावलीरात्रिरिव त्रियामा,
बभौ तदस्मिन् सुषमां दधाना ॥३१॥ वैतालीयम् -
आङ्गीरचना जिनेशितुः,
___ सुषमां दधती कामपि प्रभोः । पश्यतां मनांसि तत्क्षणं,
जर्हरीति मदिरेक्षणेव सा ॥३२॥ नगरं वसु-वासराऽवधि,
शक्रपुरी-समतां बभार तत् । प्रशशंसुः सर्वसज्जना,
__जनता-लोचन-तर्पणं महम् ॥३३॥ चरमे दिवसे महामनाः,
सकलं ग्राममबूभुजत्सकः । उत्साही पूर्णचन्द्रकः,
कर्मचन्द्र-वरनन्दनः कृती ॥३४॥ वसन्ततिलका - अत्रोत्सवे चरितनायक-पार्श्व आस
नन्तेसदः श्रमण-मुक्ति शुभाऽभिधानः । सच्छील-राजविजयोऽधिकसद्गुण-श्री
कल्याण-काऽऽदिमुनयो बहवोऽतिधीराः ॥३५॥ वाबूपद-प्रथित इभ्यवरः स पन्ना
लालात्मजः सुकृत-कारक-चूनिलालः । पक्षाऽश्व-नन्द-शशि-सम्मित-विक्रमाऽब्दे (१९७२),
सुश्रावकः सुपुर-पट्टण-सन्निवासी ॥३६॥