________________
१८६
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् मासं स्थितस्तत्र महामना हि, ..
कोटापुरीयः स हि पट्टणस्थः । श्रीकर्मचन्द्राऽङ्गज-पूर्णचन्द्रः,
पुरं रणूजं व्रजितुं किलैनम् ॥२६॥ विहृत्य तस्मादचिरं रणूजम्,
आजग्मिवानत्र समस्तपौराः । महामहेनाऽतितपिष्ठमेनं,
प्रावीविशन्नात्मपुराऽन्तरेनम् ( रेऽरम्) ॥२७॥ मनुष्यजन्माऽधिकदुर्लभत्वे,
व्याख्यानमोजस्वितरं महीयान् । ददौ चिरं सर्वजनेषु तस्य,
प्रभावमत्यन्त पपात(न्तमवाप) तत्र ॥२८॥ इहाऽकरोत् कौटिक-पूर्णचन्द्रः,
श्रीकर्मचन्द्रस्य सुतो महेभ्यः । अष्टाह्निकं चारुमहोत्सवं च,
प्रभावना-पूजन-संघभक्तीः ॥२९॥ सत्तोरणैश्चित्रित-चित्रवर्णैः,
परिस्फुरच्चित्रपटैर्महद्भिः। । ध्वजैश्च सर्वं नगरं प्रकाम
मशूशुभत्तत्र महामहेऽसौ ॥३०॥ अचीकरद्वैद्युत-दीप्तिमुग्रां,
प्रत्येकरथ्या-प्रतिराजमार्गम् ।