________________
चारणपत्तने गमनम्। आचार्यवर्यस्य विशेष-ग्रन्था
नासीद्वहिष्कारयितुं सयत्नः ॥२०॥ प्राचीन-ग्रन्थेषु बहिष्कृतेषु,
लोकोपकारो भविता विशेषः । प्रख्यातिमायास्यति जैनशास्त्र
मित्थं प्रदध्यौ हृदये स्वकीये ॥२१॥ सम्वत्सरे पक्ष-हयाऽङ्कचन्द्रे, (१९७२)
तत्पट्टणेऽसौ चरिताऽधिनाथः । न्युवास वर्षादिवसेषु तत्र,
ददौ प्रबोधं बहु सज्जनानाम् ॥२२॥ प्रान्ते च तस्मात्सह सर्वशिष्यैः,
कृत्वा विहारं परमोत्सवेन । समाययौ चाणर-पत्तनं स,
तस्मिंश्च पौराः सकलाः प्रहर्षात् ॥२३॥ बेण्डाऽऽदि-नानाविध-तूर्यनादै
रेत्याऽऽगतस्याऽभिमुखं ह्यमुष्य । प्रवेशयामासुरमुं पुराऽन्तः,
सुसञ्जितं तोरण-बन्धनाऽऽद्यैः ॥२४॥ (युग्मम्) उद्यापनेऽष्टौ दिवसानि तत्र,
महामहः पौरजनैरकारि । अष्टोत्तर-स्नात्रसमर्चनाऽऽदि,
बभूव नानाविधधर्मकृत्यम् ॥२५॥