________________
१८३
पत्तने चतुर्मासकरणं विपाकसूत्रवाचनं च । उपजातिः - स्त्रीपुंसकानां महती भवन्ती,
ह्युपस्थितिः श्रोतुमिदं जनानाम् । प्रभावना-पूजन-सत्तपांसि,
चक्रुश्च लोका बहवो महान्ति ॥१०॥ वसन्ततिलका - तौ मुक्ति-राजविजयौ सुधियौ च षोड
शोपोषणानि परिचक्रतुरुल्लसन्तौ । मासं बभूव परमोत्सव एतदर्थः,
सुश्राविकाः परिजगुर्महिमानमस्य ॥११॥ उत्पात-मेघपटली चरिताधिनाथ
भास्वन्तमेनमसकृन्नितरा-मरौत्सीत् । किन्त्वात्म-पौरुष-महापवनेन सर्वो,
विच्छिन्नतामुपजगाम महीयसोऽस्य ॥१२॥ सेहेऽसको सकलमेव हि शान्तवृत्त्या,
विद्वेषिवृन्दमयमात्मबलेन जित्वा । निःशेष-राक्षसकुलं हनुमानिवाऽऽशु,
प्रापुस्फुरन्निज-जयध्व( ध्वज )मुच्चकैः सः ॥१३॥ उपजाति: - कनासना-नामक-पाटके श्री
पन्यासभावाऽऽख्यमुनीश्वरेण । सहैष धीमान् विरराज यर्हि,
वर्षादिनानि व्यपनीनिषुर्हि ॥१४॥