________________
१७९
डेलाभिधोपाश्रये ज्ञानमन्दिरकरणारम्भः । उपजातिः - डेलाभिधोपाश्रय-सर्वमुख्याः ,
मध्ये चतुर्मासमरं विधातुम् । सत्पुस्तकाऽगारमकामयन्त,
तत्कुड्य-खातं समखानयन्त ॥९८६॥ तावद्विरोधो बलवानुदस्थात्,
तेनैव कार्यं न्यवृतत्तदीयम् । परन्तु नेता चरितस्य चाऽय
मशीशमत्तं बलवद्विरोधम् ॥९८७॥ भुजङ्गप्रयातम् - सदा शान्तमूर्तेर्गुरोरस्य वाचा,
महेभ्या अशेषा मिथोमुक्तभेदाः । पुनः संस्कृतास्ते विमृश्याऽऽशु मैत्र्या,
समारम्भयामासुरेतस्य कार्यम् ॥९८८॥ उपजातिः - भू-वाजि-रन्धेन्दु-मिते-सुवर्षेऽ-(१९७१)
सौ राजपूर्वे नगरे प्रचक्रे । सत्पांजरापोलिक-सुन्दरोपा ।
__ श्रये चतुर्मास्य-निवासमित्थम् ॥९८९॥ दृगश्व-नन्द-क्षितिमान-वर्षे, (१९७२)
पुर्योर्नरोडा-सरखेजनाम्न्योः । निर्जग्मतुौं रमणीय-संघौ,
श्रीमद्गुरोरस्य महोपदेशात् ॥९९०॥