________________
१७८
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् मालिनी - तिलकविजयसाधुः सद्विनीतश्च मान,
उदयविजय-कल्याणौ विपश्चिद्विनीतौ । इह हि जलदकाले पार्श्व आसन् किलैते, चरण-कमल-भृङ्गाः सद्गुरूणां तपिष्ठाः ॥९८१॥
(युग्मम्) पर्वृषणे पर्वणि देवसापा
टकस्थितोपाश्रयमेतुमेषः । पन्न्यासमुख्यं मुनि-दाननामा____नं प्राहिणोच्छीमुनिराजवर्यः ॥९८२॥ विद्यालयोपाश्रय एतकं श्री
मद्धर्ष-पन्न्यासमुदार-बुद्धिम् । प्रैषीद्गुरुस्तत्र हि वाचनाय,
__ श्रीकल्पसूत्रस्य सुपावनस्य ॥९८३॥ द्रुतविलम्बितम् - पगथियेतिसमाह्व उपाश्रये,
ह्युदयनाममुनिः प्रहितोऽमुना । सुगुरुणा जनता-बहुलाऽऽग्रहै
र्वसुदिनानि सुवाचनहेतवे ॥९८४॥ इन्द्रवंशा - इत्थं हि सानन्दमनून-सूत्सवैः,
सर्वत्र पर्युषण-पर्व सज्जनाः । आराधयामासुरुदार-बुद्धयः,
- श्रीमद्गुरूणां कृपया विशेषया ॥९८५॥