________________
१७६
- आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् आसीत्तदा तत्र विराजमान; -...
उपाश्रये श्रीमुनिराजवर्यः । पन्यास-शाली निरवद्यशीलः,
श्रीधर्मनामा विजयोपयुक्तः ॥९७१॥
मालिनी -
तदनु सदसि लोकाऽत्यन्त-सब्दोधदाता,
कति-शत-नर-नारी-सम्भृतायां सुवाचा । अददत बहुरम्यं जीवनस्योपरिष्टात्,
__परमहितकरं तद्धर्मसारोपदेशम् ॥९७२॥ जगति भवति जन्तोर्जीवनं येन धन्यं,
हृदयमपि विशुद्धं बोभवीत्यत्र पुंसाम् । परमपदमियति प्रेत्य जीवो हि येन,
तमनिशमिह सर्वे धर्ममेकं भजध्वम् ॥९७३॥ द्विदिनमिह मुनीशस्तस्थिवान् भव्यजीवान्,
जिन-कथित-वचोभिर्वेद( दय)न्नात्मतत्त्वम् । उपकृत-बहुजीवः शासनोद्दीप्तिकारी,
हृदयकमलमेषा फुल्यन् भानुवद्धि ॥९७४॥ उपजातिः - विहृत्य तस्माज्जयसिंहनाम
सच्छेष्ठिवर्यस्य सुवाटियाम् । सुरेश-सद्मोपम-चित्रशाले,
सूपाश्रयेऽपूर्वमनोहरेऽसौ ॥९७५॥