________________
१७५
डेलोपाश्रये गमनम् । श्रेष्ठिश्रीजयसिंह-धीर-धिषण-श्रीमत्प्रतापाऽऽदिभिस्तत्रैवाऽर्बुदपर्वते ह्युपगतैस्तैः प्रार्थितोऽहं पुरा ॥९६५॥
उपजातिः -
तत्पांजरापोल उपाश्रयेऽहं,
कर्तास्मि वर्षादिवसेषु वासम् । श्रुत्वा गुरूक्तं वचनं किलेदं,
सर्वे पुनस्ते गुरुमेवमूचुः ॥९६६॥ द्वित्राणि घस्त्राण्यपि तत्र गन्तुं,
स्वामिन् ! प्रसादं कुरु पाहि नस्त्वम् । मेने तदभ्यर्थनमित्थमेष,
जगञ्जन-त्राण-कृत-प्रयत्नः ॥९६७॥ ततः समाऽऽशाः परिपूरयद्भि
र्बाधिर्यकारैरखिलस्य जन्तोः ।। बेण्डाऽऽदिकाऽशेष-विशेष-वाद्यै
नद्यमानैर्युगपत्समुच्चैः ॥९६८॥ ध्वजेषु नैकेषु परिस्फुरत्सु,
सरक्त-पीताऽर्जुन-सत्पटेषु । सुमण्डिताऽमेयवधूजनेषु,
गायत्सु गीतं मधुर-स्वरेण ॥९६९॥ इत्थं महाऽऽडम्बरतो दिगन्त
विश्रान्त-कीर्तिर्मुनिराज एषः । संधैः समस्तैर्नगरं प्रविश्य, डेलाऽभिधोपाश्रयमाजगाम ॥९७०॥
(त्रिभिर्विशेषकम् )