SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १७४ उपजाति: धर्मोपदेशममृतं सुचिरं किलैष, औपच्छन्दसिकम् - प्रावर्वृषीन्नव-पयोद इवाऽम्बुधाराम् ॥९६०॥ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् वडनगरमुपैत्ततः प्रयातः, समभवदधिकमशक्तिमानिहाऽसौ । उपरिष्टादुत्तरीतुमप्ये ष नीचैर्न हि शशाक सद्गुरुः सः ॥९६१॥ अत एव कियद्दिनानि तत्र, स्थितिमकृत पुनः संविहृत्य तस्मात् । वीशनगरमेतवान् कथञ्चित्, राजनगरमयमित्थमाययौ सः ॥ ९६२ ॥ हद्वीभ्य-वाट्यां स्थिवान् महीयान्, डेलाऽभिधोपाश्रय- सर्वमुख्याः । महाप्रसिद्धाऽऽङ्गलवैद्यकेन, चिकित्सयामासुरिमे गुरूणाम् ॥९६३॥ शार्दूलविक्रीडितम् - पन्नालाल उमाऽङ्गज: शुभमतिर्भोग्यादिलालाऽभिधः, ताराचन्द - झवेरिनन्दनवरो लालश्च भोग्यादिकः । श्रीमच्छाकलचन्द-सूनुरपरेऽपि श्रावका भावुका, नैरुज्यं समुपेतवन्तमनघं श्रीमन्तमेनं विभुम् ॥९६४॥ अत्यन्तं गुरुमाग्रहीषुरखिला डेलाऽभिधोपाश्रये, संस्थातुं परमब्रवीद्गुरुवरो भोः ! श्रावका! भावुकाः ! |
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy