________________
१७३
चरित्रनेतुरर्बुदाचले गमनं तत्र च विजयनेमिसूरीश्वराणां मीलनम्। कुम्भस्य राज्ञोऽभिधया प्रसिद्ध,
सन्तिष्ठते रम्यतरं वने तत् । चत्वारि चैत्यानि जिनेश्वराणां,
निषन्ति तस्मिन्नतिसुन्दराणि ॥९५५॥ मनःसुखाख्यो भगुनन्दनोऽत्र,
रम्यां विशालां खलु धर्मशालाम् । अचीकरत्तत्र जनाः समेता--
वसन्ति नैवाऽत्र गृहाणि सन्ति ॥९५६॥ इतो विहृत्याऽऽगतवान् स तार
ङ्गाज्याख्य-तीर्थं सकलैः सुशिष्यैः । सार्धं विलोक्य प्रभु-वीतरागं,
मुहुर्मुहुस्तत्स्तवनं प्रचक्रे ॥९५७॥ सम्प्रस्थितस्तत्पुरतो जिताऽक्षः,
खेरालुनाम्नी नगरीमियाय । अत्युत्सवैः पौरकृतैः प्रविश्य,
पुरं ददौ चारु-सुदेशनां सः ॥९५८॥ इतश्चलित्वा प्रभुराजगाम,
शीपोरमत्रत्य-जनैरशेषैः । आडम्बरेणैष महीयसा हि,
प्रावेशि पुर्यां बहुमानपूर्वम् ॥९५९॥ संसार-दुःख-दहनाऽधिक-तप्त-जीव
निरशेष-तापहरणं सकलाऽघनाशम् ।